________________ (4) शिशुपालवधम् :: विंशः सर्गः ] / 603 गुरवोऽपि निषद्य यन्निदद्रु धनुषि क्षमापतयो न वाच्यमेतत् / क्षयितापदि जाग्रतोऽपि नित्यं ननु तत्रैव हि तेऽभवन्निषण्णाः / / 34 / / श्लथतां व्रजतस्तथा परेषा मगलद्धारणशक्तिमुज्झतः स्वाम् / सुगहीतमपि प्रमादभाजां मनसः शास्त्रमिवास्त्रमग्रपाणेः / / 35 / / उचितस्वपनोऽपि नीरराशी . स्वबलाम्भोनिधिमध्यगस्तदानीम् / भुवनत्रयकार्यजागरूकः / स परं तत्र परः पुमानजागः // 36 / / अथ सूर्यरुचीव तस्य दृष्टावुदभूत्कौस्तुभदर्पणं गतायाम् / पटु धाम ततो न चाद्भुतं तद्विभुरिन्द्वर्कविलोचनः किलासौ 37 महतः प्रणतेष्विव प्रसादः स मणेरंशुचयः ककुम्मुखेषु / व्यकसद्विकसालोचनेभ्यो - दददालोकमनाविलं बलेभ्यः // 38 // प्रकृति प्रतिपादुकैश्च पादै श्चक्लपे भानुमतः पुनः प्रसतुंम् / तमसोऽभिभवादपास्य मूर्छा मुपजीवत्सहसैव जीवलोकः // 36 // घनसंतमसैर्जवेन भूयो यदुयोधैर्यु धि रेघिरे द्विषन्तः / 25 ननु वारिधरोपरोधमुक्तः सुतरामुत्तपते पतिः प्रभाणाम् / / 40 / /