________________ 602 ] .. [ काव्यषटकं 10 तमकुण्ठमुखाः सुपर्णकेतोरिषवः क्षिप्तमिषुव्रजं परेण / विभिदामनयन्त कृत्यपक्षं नृपतेर्नेतुरिवायथार्थवर्णाः / / 23 / / दयितैरिव खण्डिता मुरारेविशिखैः सम्मुखमुज्ज्वलाङ्गलेखैः / लघिमानमुपेयुषी पृथिव्यां विफला शत्रुशरावलिः पपात / 24 / 5 प्रमुखेऽभिहताश्च पत्रवाहाः प्रसभं माधवमुक्तवत्सदन्तैः / परिपूर्णतरं भुवो गतायाः परतः कातरवत्प्रतीपमीयुः / / 25 / / इतरेतरसंनिकर्षजन्मा गलसंघट्टविकीर्णविस्फुलिङ्गः / पटलानि लिहन्बलाहकानामपरेषु क्षणमज्ज्वलत्कृशानुः / 26 / शरदीव शरश्रिया विभिन्ने विभुना शत्रुशिलीमुखाभ्रजाले / विकसन्मुखवारिजाः प्रकामं बभुराशा इव यादवध्वजिन्यः / 27 // स दिवं समचिच्छदच्छरौघैः कृततिग्मद्युतिमण्डलापलापैः / ददृशेऽथ च तस्य चापयष्टयामिषुरेकैव जनैः सकृद्विसृष्टा / 28 / भवति स्फुटमागतो विपक्षान्न सपक्षोऽपि हि निर्वतेविधाता। 15 शिशुपालबलानि कृष्णमुक्तः सुतरां तेन तताप तोमरोघः / / 26 / / गुरुवेगविराविभिः पतरिषवः काञ्चनपिङ्गलाङ्गभासः / विनतासुतवत्तलं भुवः स्म व्यथितभ्रान्तभुजंगमं विशन्ति / 30 / शतशः परुषाः पुरो विशङ्क शिशुपालेन शिलीमुखाः प्रयुक्ताः / परमर्मभिदोऽपि दानवारे ___ रपराधा इव न व्यथां वितेनुः / / 31. / / विहिताद्भुतलोकसष्टिमाये जयमिच्छन्किल मायया मुरारौ / भुवनक्षयकालयोगनिद्रे नृपतिः स्वापनमस्त्रमाजहार // 32 // 25 सलिलार्द्रवराहदेहनीलो विदधद्भास्करमर्थशून्यसंज्ञम् / प्रचला यतलोचनारविन्दं विदधे तद्बलमन्धमन्धकारः / 33 /