________________ 562 ] [ काव्यषटकं कटकानि भजन्ति चारुभिर्नवमुक्ताफलभूषणभुजैः / / नियतं दधते च चित्रकैरतियोगं पृथुगण्डशैलतः // 77 / / इति यस्य ससंपदः पुरा यदवापुर्भवनेष्वरिस्त्रियः / स्फुटमेव समस्तमापदा तदिदानीमवनीध्रमूर्धसु // 78 / / 5 महतः कुकुरान्धकमानतिमात्रं दववहहन्नपि / अतिचित्रमिदं महीपतिर्यदकृष्णामवनी करिष्यति / / 7 / / परितः प्रमिताक्षरापि सर्व विषयं __ व्याप्तवती गता प्रतिष्ठाम् / न खलु प्रतिहन्यते कुतश्चित्परि भाषेव गरीयसी यदाज्ञा // 8 // यामूढवानूढवराहमूर्तिमुहूर्तमादौ पुरुषः पुराणः / तेनोह्यते सांप्रतमक्षतैव क्षतारिणा सम्यगसौ पुनर्भूः / / 81 / / भूयांसः क्वचिदपि काममस्खलन्त स्तुङ्गत्वं दधति च यद्यपि द्वयेऽपि / कल्लोलाः सलिलनिधेरवाप्य पारं शीर्यन्ते न गुणमहोर्मयस्तदीयाः // 2 // लोकालोकव्याहतं धर्मरश्मेः शालीनं वा धाम नालं प्रसतु म्। लोकस्याग्रे पश्यतो धृष्टमाशु कामत्युच्चैर्भूभृतो तेजः / / 3 / / विच्छित्तिर्नवचन्दनेन वपुषो भिन्नोऽधरोऽलक्तकै रच्छाच्छे पतिताञ्जने च नयने श्रोण्योऽलसन्मेखलाः / प्राप्तो मौक्तिकहारमुन्नतकुचाभोगस्तदीयद्विषा मित्थं नत्यविभूषणा युवतयः संपत्सु चापत्स्वपि / / 8 / / विनिहत्य भवन्तमूर्जितश्रीयुधि सद्यः शिशुपालतां ययार्थाम् / रुदतां भवदङ्गनागणानां करुणान्तःकरणः करिष्यतेऽसौ / 45 / 25 // इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्रयके दूतसंवादो नाम षोडशः सर्गः // 16 //