________________ (4) शिशुपालवधम् :: सप्तदशः सर्गः ] [ 563 - // 17 // सप्तदशः सर्गः॥ ( रुचिरावृत्तम् ) इतीरिते वचसि वचस्विनामुना __युगक्षयक्षुभितमरुद्गरीयसि / प्रचुर्भे सपदि तदम्बुराशिना / ____समं महाप्रलयसमुद्यतं सदः // 1 // सरागया स्र तघनघर्मतोयया कराहतिध्वनितपृथूरुपीठया। मुहुर्मुहुर्दशनविखण्डितोष्ठया रुषा नृपाः प्रियतमयेव भेजिरे।२। अलक्ष्यत क्षणदलिताङ्गदे गदे करोदरप्रहितनिजांसधामनि / समुल्लसच्छकलितपाटलोपलैः स्फुलिङ्गवान्स्फुटमिव कोपपावकः // 3 // अवज्ञया यदहसदुच्चकैर्बलः समुल्लसद्दशनमयूखमण्डल: / रुषारुणीकृतमपि तेन तत्क्षणं निजं वपुः पुनरनयन्निजां रुचिम् / / 4 / / यदुत्पतत्पृथुतरहारमण्डलं व्यवर्तत द्रुतमभिदूतगुल्मकः / बृहच्छिलातलकठिनांसघट्टितं ततोऽभवद्भ्रमितमिवाखिलं सदः // 5 // प्रकुप्यतः श्वसनसमीरणाहति ___स्फुटोष्मभिस्तनुवसनान्तमारुतैः / युधाजितः कृतपरितूर्णवीजनं पुनस्तरां वदनसरोजमस्विदत् // 6 / /