________________ (4) शिशुपालवधम् :: षोडशः सर्गः ] / 561 तुहिनांशुममुं सुहृज्जनाः कलयन्त्युष्णकरं विरोधिनः / कृतिभिः कृतदृष्टिविभ्रमाः स्रजमेके भुजगं यथापरे / / 64 / / दधतोऽसुलभक्षयागमास्तनुमेकान्तरताममानुषीम् / भुवि सम्प्रति न प्रतिष्ठिताः सदृशा यस्य सुरैररातयः // 65 / / 5 अतिविस्मयनीयकर्मणो नृपतेर्यस्य विरोधि किंचन / यदमुक्तनयो नयत्यसावहितानां कलमक्षयं क्षयम् // 66 / / चलितोलकबन्धसम्पदो मकरव्यूहनिरुद्धवर्त्मनः / प्रतरत् स्वभुजौजसा मुहुर्महतः सङ्गरसागरानसौ // 67 / / न चिकीर्षति य: स्मयोद्धतो नृपतिस्तच्चरणोपगं शिरः / 10 चरणं कुरुते गतस्मयः स्वमसावेव तदीयमूर्धनि / / 68 / / स्वभुजद्वयकेवलायुधश्चतुरङ्गामपहाय वाहिनीम् / बहुशः सह शक्रदन्तिना स चतुर्दन्तमगच्छदाहवम् // 66 / / अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया / युवयोरिदमेव भिद्यते यदुपेन्द्रस्त्वमतीन्द्र एव सः // 70 / / 15 भूतभूतिरहीनभोगभाग्विजितानेकपुरोऽपि विद्विषाम् / रुचिमिन्दुदले करोत्यजः परिपूर्णेन्दुरुचिर्महीपतिः // 71 / / नयति द्रुतमुद्धतिश्रितः प्रसभं भङ्गमभङ्गुरोदयः / नमयत्यवनीतलस्फुरद्भुजशाखं भृशमन्यमुन्नतिम् // 72 / / अधिगम्य च रन्ध्रमन्तरां जनयन्मण्डलभेदमन्यतः / खनति क्षतसंहति क्षणादपि मूलानि महान्ति कस्यचित् / / 73 // घनपत्रभृतोऽनुगामिनस्तरसाकृष्य करोति कांश्चन / दृढमप्यपरं प्रतिष्ठितं प्रतिकूलं नितरां निरस्यति / / 74 / / इति पूर इवोदकस्य यः सरितां प्रावृषिजस्तटद्रुमैः / क्वचनापि महानखण्डितप्रसरः क्रीडति भूभृतां गणैः / / 75 / / .25 अलघूपलपंक्तिशालिनी: परितो रुद्धनिरन्तराम्बराः / अधिरूढनितम्बभूमयो न विमुञ्चन्ति चिराय मेखलाः // 76 / /