________________ 560 ] ( काव्यषट्कं क्षुभितस्य महीभृतस्त्वयि प्रशमोपन्यसनं वृथा मम / प्रलयोल्लसितस्य वारिधेः परिवाहो जगतः करोति किम् / / 11 / / प्रहित: प्रधनाय माधवानहमाकारयितुं महीभृता / न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव / / 52 / / 5 तदयं समुपैति भूपतिः पयसां पूर इवानिवारितः / अविलम्बितमेधि वेतसस्तरुवन्माधव मा स्म भज्यथाः / / 53 / / परिपाति स केवलं शिशूनिति तन्नामनि मा स्म विश्वसीः / तरुणानपि रक्षति क्षमी स शरण्यः शरणागतान् द्विषः / / 54 / / न विदध्युरशङ्कमप्रियं महतः स्वार्थपराः परे कथम् / भजते कुपितोऽप्यूदारधीरनुनीति नतिमात्रकेण सः / / 55 / / हितमप्रियमिच्छसि श्रुतं यदि संधत्स्व पुरा न नश्यसि / अनतैरथ तुष्यसि प्रियैर्जयताज्जीव भवाऽवनीश्वरः / / 56 / / प्रतिपक्षजिदप्यसंशयं युधि चेयेन विजेष्यते भवान् / ग्रसते हि तमोपहं मुहुर्ननु राबाहमहर्पति तमः / / 57 / / 15 अचिराज्जितमोनकेतनो विलसन् वृष्णिगणैर्नमस्कृतः / क्षितिपः क्षयितोद्धतान्धको हरलीलां स विडम्बयिष्यति / / 58 / / निहतोन्मददुष्टकुञ्जराद्दधतो भूरिः यशः क्रमार्जितम् / न बिभेति रणे हरेरपि क्षितिपः का गणनाऽस्य वृष्णिषु / / 5 / / न तदद्भुतमस्य यन्मुखं युधि पश्यन्ति भिया न शत्रवः / द्रवतां ननु पृष्ठमोक्षते वदनं सोऽपि न जातु विद्विषाम् / / 60 / / प्रतनूल्लसिताचिरद्युतः शरदं प्राप्य विखण्डितायुधाः / दधतेऽरिभिरस्य तुल्यतां यदि नासारभृतः पयोभृतः / / 61 / / मलिनं रणरेणुभिमु हुद्विषतां क्षालितमङ्गनाश्रुभिः / . नृपमौलिमरीचिवर्णकैरथ यस्याङ्घ्रियुगं विलिप्यते // 62 / / 25 समराय निकामकर्कशं क्षणमाकृष्टमुपैति यस्य च / धनुषा सममाशु विद्विषां कुलमाशङ्कितभङ्गमानतिम् / / 63 //