________________ (4) शिशुपालवधम् :: षोडशः सर्गः ] [ 556 निशमय्य तदूजितं शिनेर्वचनं नप्तुरनाप्तुरेनसाम् / पुनरुज्झितसाध्वसं द्विषामभिधत्ते स्म वचो वचोहरः / / 38 / / विविनक्ति न बुद्धिदुविधः स्वयमेव स्वहितं पृथग्जनः / यदुदीरितमप्यदः परैर्न विजनाति तदद्भुतं महत् / / 3 / / 5 विदुरेष्यदपायमात्मना परत: श्रद्दधतेऽथवा बुधाः / न परोपहितं न च स्वतः प्रमिमीतेऽनुभवादृतेऽल्पधीः / / 40 / / कुशलं खलु तुभ्यमेव तद्वचनं कृष्ण यदभ्यधामहम् / उपदेशपराः परेष्वपि स्वविनाशाभिमुखेषु साधवः / / 41 / / उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते / 10 प्रविभज्य पृथङ्मनीषया स्वगुणं यत्किल तत्करिष्यसि / / 42 / / अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् / रविरागिषु शीतरोचिषः करजालं कमलाकरेष्विव / / 43 / / अनपेक्ष्य गुणागुणौ जनः स्वरुचि निश्चयतोऽनुधावति / अपहाय महीशमाचिचत्सदसि त्वां ननु भीमपूर्वजः / / 44 / / 15 त्वयि भक्तिमतः न सत्कृतः कुरुराजा गुरुरेव चेदिपः / प्रियमांसमृगाधिपोज्झितः किमवद्यः करिकुम्भजो मणिः / / 4 / / क्रियते धवलः खलूच्चकैर्धवलैरेव सितेतररधः / शिरसौघमघत्त शङ्करः सुरसिन्धोर्मधुजित्तमङ्घ्रिणा // 46 / / अबुधैः कृतमानसंविदस्तव पार्थः कुत एव योग्यता। 20 सहसि प्लवगैरुपासितं न हि गुजाफलमेति सोष्मताम् / / 47 / / अपराधशतक्षमं नृपः क्षमयाऽत्येति भवन्तमेकया / हृतवत्यपि भीष्मकात्मजां त्वयि चक्षाम समर्थ एव यत् / / 48 / / गुरुभिः प्रतिपादितां वधूमपहृत्य स्वजनस्य भूपतेः / जनकोऽसि जनार्दन स्फुट हतधर्मार्थतया मनोभुवः / / 49 / / * 25 अनिरूपितरूपसंपदस्तमसो वान्यभृतच्छदच्छवेः / तव सर्वगतस्य संप्रति क्षितिपः क्षिप्नुरभीशुमानिव // 50 //