________________ 538 ] [ काव्यषट्कं वारिपूर्वमखिलासु सत्क्रियालब्धशुद्धिषु धनानि बीजवत् / भावि बिभ्रति फलं महद्विजक्षेत्रभूमिषु नराधिपोऽवपत् // 34 // किं नु चित्रमधिवेदि भूपतिदक्षयन्द्विजगणानपूयत / राजतः पुपुविरे निरेनसः प्राप्य तेऽपि विमलं प्रतिग्रहम् / 35 / 5 स स्वहस्तकृतचिह्नशासन: पाकशासनसमानशासनः / पा शशाङ्कतपनार्णवस्थितेविप्रसादकृत भूयसी वः / / 36 / / शुद्धमश्रुतिविरोधि बिभ्रतं शास्त्रमुज्ज्वलमवर्णसङ्करैः / पुस्तकैः सममसौ गणं मुहुर्वाच्यमानमशृणोदद्विजन्मनाम् / 37 / तत्प्रतीतमनसामुपेयुषां द्रष्टुमाहवनमग्रजन्मनाम् / 10 आतिथ्यमनिवारितातिथिः कर्तुमाश्रमगुरुः स नाश्रमत् / / 38 / / मृग्यमाणमपि यद् दुरासदं भूरिसारमुपनीय तत्स्वयम् / आसतावसरकाङ्क्षिणो बहिस्तस्य रत्नमुपदीकृतं नृपाः / / 3 / / एक एव वसु यद्ददौ नृपस्तत्समापकमतर्यंत क्रतोः / त्यागशालिनि तपःसुते ययुः सर्वपार्थिवधनान्यपि क्षयम् / 40 / 15 प्रीतिरस्य ददतोऽभवत्तथा येन तत्प्रियचिकीर्षवो नृपाः / स्पशितैरधिकमागमन्मुदं नाधिवेश्म निहितैरुपायनैः / / 41 / / यं लघुन्यपि लघूकृताहितः शिष्यभूतमशिषत्स कर्मणि / सस्पृहं नृपतिभिर्नु पोऽपरैगौरवेण ददृशेतरामसौ // 42 / / आद्यकोलतुलितां प्रकम्पनैः कम्पितां मुहुरनोगात्मनि / वाचि रोपितवताऽमुना महीं राजकाय विषया विभेजिरे।४३। अागताद्वयवसितेन चेतसा सत्त्वसम्पदविकारिमानसः / तत्र नाभवदसौ महाहवे शात्रवादिव पराङ्मुखोऽर्थिनः / / 44 / / नक्षतार्थिनमवज्ञया मुहुर्याचितस्तु न च कालमाक्षिपत् / नादिताल्पमथ न व्यकत्थयद्दत्तमिष्टमपि नान्वशेत सः // 45 / / 25 निर्गुणोऽपि विमुखो स भूपतेर्दानशौण्डमनसः पुरोऽभवत् / वर्ष कस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्यमूषरम् / / 46 / / 20 र