________________ (4) शिशुपालवधम् :: चतुर्दशः सर्गः ] [ 537 बद्धदर्भमयकाञ्चिदामया वीक्षितानि यजमानजायया। * शुष्मणि प्रणयनादिसंस्कृते तैर्हवींषि जुहवाम्बभूविरे // 22 // नाञ्जसा निगदितुं विभक्तिभिर्व्य क्तिभिश्च निखिलाभिरागमे / 5 तत्र कर्मणि विपर्यणीनमन् मन्त्रमूहकुशलाः प्रयोगिणः // 23 / / संशयाय दधतोः सरूपतां दूरभिन्नफलयोः क्रियां प्रति / शब्दशासनविदः समासयोविग्रहं व्यवससूः स्वरेण ते / / 24 / / लोलहेतिरसनाशतप्रभामण्डलेन लसता हसन्निव / 10 प्राज्यमाज्यमसकृद्वषट्कृतं निर्मलीमसमलीढ पावकः / / 25 / / तत्र मन्त्रपवितं हविः ऋतावश्नतो न वपुरेव केवलम् / वर्णसम्पदमतिस्फुटां दधन्नाम चोज्ज्वलमभूद्धविर्भुजः / / 26 / / स्पर्शमुष्णमुचितं दधच्छिखी यद्ददाह हविरद्भुतं न तत् / गन्धतोऽपि हुतहव्यसम्भवाद् देहिनामदहदोघमंहसाम् // 27 / / -- 15 उन्नमन्सपदि धूम्रयन्दिशः सान्द्रतां दधदधःकृताम्बुदः / द्यामियाय दहनस्य केतनः कीर्तयन्निव दिवौकसां प्रियम् / / 28 / / निजिताखिलमहार्णवौषधिस्यन्दसारममृतं ववल्गिरे / नाकिनः कथमपि प्रतीक्षितुं हूयमानमनले विषेहिरे / / 26 / / तत्र नित्यविहितोपहूतिषु प्रोषितेषु पतिषु द्युयोषिताम् / / 20 गुम्फिताः शिरसि वेणयोऽभवन्न प्रफुल्लसुरपादपस्रजः / / 30 / / प्राशुराशु हवनीयमत्र यत्तेन दीर्घममरत्वमध्यगुः / / उद्धतानधिकमेघितौजसो दानवांश्च विबुधा विजिग्यिरे / 31 / नापचारमगमन्क्वचित्क्रियाः सर्वमत्र समपादि साधनम् / अत्यशेरत परस्परं धियः सत्त्रिणां नरपतेश्च सम्पदः / / 32 / / * 25 दक्षिणीयमवगम्य पङ्क्तिशः पङ्क्तिपावनमथ द्विजव्रजम् / . दक्षिणः क्षितिपतिळशिश्रणदक्षिणाः सदसि राजसूयकीः / 33 /