________________ ___ [ काव्यषट्कं प्रकटतरमिमं मा द्राक्षुरन्या रमण्यः .... स्फुटमिति सविशङ्क कान्तया तुल्यवर्णः / चरणतलसरोजाक्रान्ति संक्रान्तयासो वपुषि नखविलेखो लाक्षया रक्षितस्ते / / 32 / / .5 तदवितथमवादीर्यन्मम त्वं प्रियेति .. .... प्रियजनपरिभक्त यदुकुलं दधानः / मदधिवसतिमागाः कामिनां मण्डनश्री व्रजति हि सफलत्वं वल्लभोलोकनेन / / 33 / / नवनखपदमङ्ग गोपयस्यंशुकेन ___ स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् / प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन् नवपरिमलगन्धः केन शक्यो वरीतुम् / / 34 // इति कृतवचनायाः कश्चिदभ्येत्य बिभ्यद् गलितनयनवारेोति पादावनामम् / करुणमपि समर्थ मानिनां मानभेदे .. रुदितमुदितमस्त्रं योषितां विग्रहेषु // 35 / / मदमदनविकासस्पृष्टधाष्टर्योदयानां रतिकलहविकीर्णभूषणैरचितेषु / विदधति न गृहेषूत्फुल्लपुष्पोपहारं . _ विफलविनययत्नाः कामिनीनां वयस्याः / 36 // करजदशनचिह्न नैशमङ्गेऽन्यनारी ___ जनितमिति सरोषामीjया शङ्कमानाम् / स्मरसि न खलु दत्तं मत्तयैतत्त्वयैव स्त्रियमनुनयतीत्थं वीडमानां विलासी // 37 // 25 कृतगुरुतरहारच्छेदमालिङ्गय पत्यो : परिशिथिलितगात्रे गन्तुमापृच्छमाने /