________________ // अथोत्तरार्द्धम् // // 11 // एकादशः सर्गः // ( मालिनीवृत्तम् ) श्रुतिसमधिकमुच्यैः पञ्चमं पीडयन्तः सततमृषभहीनं भिन्नकीकृत्य षड्जम् / प्रणिजगदुरकाकुश्रावकस्निग्धकण्ठाः ___ परिणतिमिति रात्रेगिधा माधवाय / / 1 / / रतिरभसविलासाभ्यासतान्तं न याव नयनयुगममीलत्तावदेवाहतोऽसौ / रजनिविरतिशंसी कामिनीनां भविष्य द्विरहविहितनिद्राभङ्गमुच्चैमृदङ्गः / / 2 / / स्फुटतरमुपरिष्टादल्पमूर्तेधू वस्य . स्फुरति सुरमुनीनां मण्डलं व्यस्तमेतत् / शकमिव महीयः शैशवे शाङ्गपाणे श्चपलचरणकाब्जप्रेरणोत्तुङ्गिताग्रम् / / 3 / / प्रहरकपमनीय स्वं निदिद्रास ..तोच्चः प्रतिपदमुपहूतः केनचिज्जागृहीति / मुहुरविशदवर्णा निद्रया शून्यशून्यां दददपि गिरमन्तबुध्यते नो मनुष्यः / / 4 / / विपुलतरनितम्बाभोगरुढे रमण्याः / सयितुमनधिगच्छजीवितेशोऽवकाशम् / रतिपरिचयनश्यन्नद्रतन्द्रः कथंचिद् गमयति शयनीये शर्वरीं कि करोतु // 5 //