________________ 500 ] / काव्यषट्कं मृष्टचन्दनविशेषकभक्तिभ्रंष्टभूषणकथितमाल्यः / सापराध इव मण्डनमासीदात्मनैव सुदृशामुपभोगः / / 84 / / योषितः पतितकाञ्चनकाञ्ची मोहनातिरभसेन नितम्बे / मेखलेव परितः स्म विचित्रा राजते नवनखक्षतलक्ष्मीः / / 5 / 5 भातु नाम सुदृशां दशनाङ्कः पाटलो धवलगण्डतलेषु / / दन्तवाससि समानगुणश्रीः संमुखोऽपि परभागमवाप / / 86 / / सुभ्र वामधिपयोधरपीठं पीडनैस्त्रुटितवत्यपि पत्युः / मुक्तमौक्तिकलघुर्गुणशेषा हारयष्टिरभवृद् गुरुरेव / / 7 / / विश्रमार्थमपगूढमजस्र यत्प्रियैः प्रथमरत्यवसाने / / योषितामुदितमन्मथमादौ तद्वितीयसुरतस्य बभूव / / 88 // आस्तृतेऽभिनवपल्लवपुष्पैरप्यनारतरयाभिरताभ्यः / दीयते स्म शयितुं शयवीये न क्षणः क्षणदयापि वधूभ्यः / / 89 / / योषितामतितरां नखलूनं गात्रमुज्ज्वल तया न खलूनम् / क्षोभमाशु हृदयं नयदूनां रागवृद्धिमकरोन्न यदूनाम् / / 10 / / इति मदमदनाभ्यां रागिणः स्पष्टरागा-. ननवरतरतश्रीसङ्गिनस्तानवेक्ष्य / अभजत परिवृत्ति साथ पर्यस्तहस्ता रजनिरवनतेन्दुर्लज्जयाधोमुखीव // 61 / / प्रभजत इति श्रीमाघकृती शिशुपालवधे महाकाव्ये श्रयते सुरत२० वर्णनो नाम दशमः सर्गः // 10 // 卐