________________ 502 ] [ काव्यषट्कं क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगा नुदधिमहति राज्ये काव्यवदुर्विगाहे / गहनमपररात्रप्राप्तबुद्धिप्रसादाः कवय इव महीपाश्चिन्तयन्त्यर्थजातम् / / 6 / / क्षितितटशयनान्तादुत्थितं दानपङ्क प्लुतबहुलशरीरं शाययत्येष भूयः / मृदुचलदपरान्तोदीरितान्दुनिनादं गजपतिमधिरोहः पक्षकव्यत्ययेन // 7 / / द्रुततरकरदक्षाः क्षिप्तवैशाखशैले ___दधति दधनि धीरानारवान्वारिणीव / शशिनमिव सुरौघाः सारमद्धतु मेते कलशिमुदधिगुर्वी बल्लवा लोडयन्ति / / 8 / / अनुनयमगृहीत्वा व्याजसुप्ता पराची रुतमथ कृकवाकोस्तारमाकर्ण्य कल्ये / कथमपि परिवृत्ता निद्रयान्धा किल स्त्री मुकुलितनयनैवाश्लिष्यति प्राणनाथम् / / 6 / / गतमनुगतवीणेरेकतां वेणुनादैः कलमविकलताल गायकैबोधहेतोः / असकृदनवगीतं गीतमाकर्णयन्तः सुखमुकुलितनेत्रा यान्ति निद्रां नरेन्द्राः / / 10 / / परिशिथिलितकर्णग्रीवमामीलिताक्षः क्षणमयमनुभूय स्वप्नमूर्ध्वरेव / रिरसयिषति भूयःशष्पमग्रे विकीर्ण पटुतरचपलौष्ठः प्रस्फुरत्प्रोथमश्वः // 11 / / उदयमुदित दीप्तिर्याति यः संगतौ मे' पतति न वरमिन्दुः सोऽपरामेष गत्वा / 25