________________ (4) शिशुपालवधम् :: दशमः सर्गः ] [ 461 पोतवत्यभिमते मधुतुल्यस्वादमोष्ठरुचकं विददक्षौ / * लभ्यस्ते स्म परिरक्ततयात्मा यावकेन वियतापि युवत्याः।।६।। कस्यचित्समदनं मदनीयप्रेयसीवदनपानपरस्य / स्वादितः सकृदिवासव एव प्रत्युत क्षणविदंशपदेऽभूत् / / 10 / / पीतशीधुमधुरैमिथुनानामाननैः परिहृतं चषकान्तः / वीडया रुददिवालिविरावैर्नीलनीरजमगच्छदधस्तात् / / 11 / / प्रातिभं त्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः / गूढसूचित रहस्यसहास: सुध्रुवां प्रववृते परिहासः / / 12 // हावहारि हसितं वचनानां कौशलं दृशि विकारविशेषाः / चक्रिरे भृशमजोरपि वध्वाः ____ कामिनेव तरुणेन मदेन // 13 / / अप्रसन्नमपराद्धरि पत्यौ ___ कोपदीप्तमुररीकृतधैर्यम् / क्षालितं नु शमितं नु वधूनां | द्रावितं नु हृदयं मधुवारैः // 14 / / सन्तमेव चिरमप्रकृतत्वादप्रकाशितमदिद्युतदङ्गे / विभ्रमं मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थम् / / 15 / / सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु / 20 गन्तुमुत्थितमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् / 16 / मद्यमन्दविगलत्त्रपमीषच्चक्षुरुन्मिषितपक्ष्म दधत्या। वीक्ष्यते स्म शनकैनवबध्वा कामिनो मुखमधोमुखयैव / / 17 / / या कथञ्चन सखीवचनेन प्रागभिप्रियतमं प्रजगल्भे। ... ब्रोडजाड्यमभजन्मधुपा सा स्वां मदात्प्रकृतिमेति हि सर्वः / 18 / 25 छादितः कथमपि त्रपयान्तर्यः प्रियं प्रति चिराय रमण्याः / 15 ता"