________________ 476 ] [ काव्यषट्कं स्वच्छाम्भःस्नपनविधौतमङ्ग मोष्ठस्ताम्बूलद्युतिविशदो विलासिनीनाम् / वासश्च प्रतनु विविक्तमस्त्वितीयाना ____कल्पो यदि कुसुमेषुणा न शून्य: / / 70 / / इति धौतपुरन्ध्रिमत्सरान्सरसि मज्जनेन श्रियमाप्तवताऽतिशायिनीमपमलाङ्गभासः / अवलोक्य तदैव यांदवानपवारिराशेः / शिशिरेतररोचिषाप्यपां ततिषु मङ्क्तुमीषे / 71 / (प्रतिशायिनी) 1. // इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्रयङ्के जल विहारवर्णनं नामाष्टमोः सर्गः / / 8 / / // 9 // नवमः सर्गः॥ (प्रमितक्षरावृत्तम् ) अभितापसंपदमथोष्णरुचिनिजतेजसामसहमान इव / 15 पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतत् / / 1 / / गतया पुरः प्रतिगवाक्षमुखं दधती रतेन भृशमुत्सुकताम् / मुहुरन्तरालभुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा / / 2 / / विरलातपच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्रशिरः / अभवद् गदतः परिणति शिथिलः परिमन्दसूर्यनयनो दिवसः // 3 // अपराह्णशीतलतरेण शनै रनिलेन लोलितलतांगुलये।