________________ (4) शिशुपालवधम् :: अष्टमः सर्गः ) [ 473 मत्वैवं स्वगुणपिधानसाम्यसूर्यः पानीयरिति विदधाविरेऽजनानि / 50 / / निधौते सति हरिचन्दने जलौघ रापाण्डोर्गतपरभागयाङ्गनायाः / प्रहाय स्तनकलशद्वयादुपेये विच्छेदः सहृदययेव हारयष्टया // 51 / / प्रन्यून गुणममृतस्य धारयन्ती सम्फुल्लस्फुरितसरोरुहावतंसा। प्रेयोभिः सह सरसी निषेव्यमाणा / रक्तत्व व्यधित वधूदृशां सुरा च // 52 / / स्नान्तीनां बृहदमलोदबन्दुचित्री ___ रेजाते रुचिरदृशामुरोजकुम्भौ / हाराणां मणिभिरुपाश्रितो . समन्तादुत्सूत्रगुणवेदुपघ्नकाम्ययेव / / 53 / / प्रारूढः पतित इति स्वसम्भवोऽपि स्वच्छानां परिहरणीयतामुपैति / कर्णेभ्यश्च्युतमसितोत्पलं वधूनां वीचीभिस्तटमनु यन्निरासुरापः // 54 / / दन्तानामधरमयावक पदानि / ___ प्रत्यग्रास्तनुमविलेपना नखाङ्काः / पानिन्युः श्रियमधितोयमङ्गनानां शोभायै विपदि सदाश्रिता भवन्ति // 55 / / कस्याश्चिन्मुखमनु धौतपत्रलेख व्यातेने सलिलभरावलम्बिनीभिः / किजल्कव्यतिकरपिञ्जरान्त राभिश्चित्रश्रीरलमलकामवल्लरीभिः // 56 //