________________ (4) शिशुपालवधम् :: सप्तमः सर्गः ] [ 463 . पदमुपदधिरे कुलान्यलीनां न परिचयो मलिनात्मनां प्रधानम् / / 61 / / श्लथशिरसिजपाशपातभारा दिव नितरां नतिमद्भिरसभागैः / मुकुलितनयनैर्मुखारविन्दै र्घनमहतीमिव पक्ष्मणां भरेण // 62 // अधिकमरुणिमानमुद्वद्भि विकसदशीतमरीचिरश्मिजालैः / परिचितपरिचुम्बनाभियोगा दपगतकुङ्कुमरेणुभिः कपोलैः / / 63 / / अवसितललितक्रियेण बाह्वो ललिततरेण तनीयसा युगेन / सरसकिसलयानुरञ्जितैर्वा करकमलैः पुनरुक्तरक्तभाभिः / / 64 / / स्मरसरसमुरःस्थलेन पत्यु. विनिमयसंक्रमिताङ्गरागरागैः / भृशमतिशयखेदसम्पदेव ___ स्तनयुगलैरितरेतरं निषण्णैः // 65 // अतनुकुचभरागतेन भूयः श्रमजनितानतिना शरीरकेण / 20 अनुचितगतिसादनिःसहत्वं कलभकरोरूरुभिर्दधानः / / 66 / / अपगतनवयावकैश्चिराय ___ क्षतिगमनेन पुनवितीर्णरागैः / कथमपि चरणोत्पलैश्चलद्भि भृशविनिवेशवशात्परस्परस्य // 67 / / . 25. मुहुरिति वनविभ्रमाभिषङ्गा दतमि तदा नितरां नितम्बिनीभिः /