________________ 462 ] [ काव्यषट्कं मुहुरुपहसितामिवालिनादै वितरसि नः कलिकां किमर्थमेनाम् / वसतिमुपगतेन धाम्नि तस्याः शठ कलिरेष महांस्त्वयाद्य दत्तः / / 55 / / इति गदितवती रुषा जघान स्फुरितमनोरममक्ष्मकेशरेण / . . श्रवरणनियमितेन कान्तमन्या ____सममसिताम्बुरुहेण चक्षुषी च // 56 / / विनयति सुदृशो दृशः परागं प्रणयिनि कौसुममाननानिलेन / तदहितयुवतेरभीक्षणमक्ष्णो द्वयमपि रोषरजोभिरापुपूरे // 57 / / स्फुटमिदमभिचारमन्त्र एव प्रतियुवतेरभिधानमङ्गनानाम् / . वरतनुरमुनोपहूय पत्या मृदुकुसुमेन यदाहताप्यमूर्च्छत् // 58 / / समदनमवतंसितेऽधिकणं प्रणयवता कुसुमे सुमध्यमायाः / व्रजदपि लघुतां बभूव भारः सपदि हिरण्मयमण्डनं सपल्याः / / 56 / / अवजितमधुना तवाहमक्ष्णो रुचिरतयेत्यवनम्य लज्जयेव / . श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे // 6 // अवचितकुसुमा विहाय वल्ली युवतिषु कोमलमाल्यमालिनीषु / 25