________________ 464 ] [ काव्यषट्कं मृदुतरतनवोऽलसा प्रकृत्या चिरमपि ताः किमुत प्रयासभाजः / / 68 / / प्रथममलघुमौक्तिकाभमासी च्छमजलमुज्ज्वलगण्डमण्डलेषु / कठिनकुचतटाग्रपाति पश्चा दथ शतशर्करतां जगाम तासाम् / / 66 / / विपुलकमपि यौवनोद्धतानां घनपुलकोदयकोमलं चकाशे / परमलितमपि प्रियः प्रकामं कुचयुगमुज्ज्वमेव का कामिनीनाम् / / 70 / / अविरतकुसुमावचायखेदा ____ निहितभुजालतयैकयोपकण्ठम् / विपुलतरनिन्तरावलग्नस्त नपिहितप्रियवक्षसा ललम्बे // 71 / / अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य / तनुरभिलषतं क्लमच्लेन व्यवृणुत वेल्लितबाहुवल्लरीका / / 72 / / हिमलवसदृशः श्रमोदबिन्दूनपनयता किल नूतनोढवध्वाः / 20 कुचकलशकिशोरको कथञ्चित्तरलयता तरुणेन पस्पृशाते / 73 / गत्वोद्रेकं जघनपुलिने रुद्धमध्यप्रदेशः क्रामन्नूरुद्रुमभुजलताः पूर्णनाभीहृदान्तः / उल्लङ्घयोच्चैःकुचतटभुवं प्लावयन् रोमकूपान् स्वेदापूरो युवतिसरितां व्याप गण्डस्थलानि / 74 / (मदाक्रान्ता)