________________ 446 ] [ काव्यषट्कं रुरुदिषा वदनाम्बुरुहश्रियः / सुतनु सत्यमलङ्करणाय ते / तदपि सम्प्रति सन्निहिते मधा वधिगमं घिगमङ्गलमश्रुणः // 17 // त्यजति कष्टमसावचिरादसून् विरहवेदनयेत्यघशङ्किभिः / प्रियतया गदितास्त्वयि बान्ध वैरवितथा वितथाः सखि मा गिरः // 18 / / न खलु दूरगतोऽप्यतिवर्तते महमसाविति बन्धुतयोदितैः / प्रणयिनो निशमय्य वधूर्बहिः स्वरमृतैरमतैरिव निर्ववौ / / 19 / / (विशेषकम्) मधुरया मधुबोधितमाधवी ___ मधुसमृद्धिसमेधितमेधया। मधुकराङ्गनया मुहुरुन्मद ___ध्वनिभृता निभृताक्षरमुज्जगे // 20 / / अरुणिताखिलशैलवना मुहु विदधती पथिकान् परितापनिः / विककिंशुकसंहतिरुच्चकै रुदवहद्दवहव्यवहश्रियम् // 21 / / रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजोरुचः / उपययौ विदधन्नवमल्लिकाः शुचिरसौ चिरसौरभसम्पदः // 22 / / दलितकोमलपाटलकुड्मले निजवधूश्वसितानुविधायिनि