________________ (4) शिशुपालवधम् :: षष्ठः सर्गः ) [ 447 मरुति वाति विलासिभिरुन्मद भ्रमदलौ मदलौल्यमुपाददे // 23 / / * निदधिरे दयितोरसि तत्क्षण स्नपनवारितुषारभृतः स्तनाः / सरसचन्दनरेणुरनुक्षणं __ विचकरे च करेण वरोरुभिः / / 24 / / स्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा / जलधरावलिरप्रतिपालित स्वसमया समयाञ्जगतीधरम् / / 25 / / गजकदम्बकमेचकमुच्चकै नभसि वीक्ष्य नवाम्बुदमम्बरे / अभिससार न वल्लभमङ्गना . न चकमे च कमेकरसं रहः / / 26 / / 15 अनुययो विविधोपलकुण्डल द्युतिवितानकसंवलितांशुकम् / धृतधनुर्वलयस्य पयोमुचः शबलिमा बलिमानमुषो वपुः // 27 // द्रतसमीरचलैः क्षणलक्षित ___व्यवहिता विटपैरिव मञ्जरी। नवतमालनिभस्य नभस्तरो रचिररोचिररोचत वारिदैः / / 28 / / पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यती। 25 / सनयनाम्बुसखीजनसम्भ्रमा द्विधुरबन्धुरबन्धुरमैक्षत // 26 //