________________ (4) शिशुपालवधम् :: षष्ठः सर्गः ] [ 445 अविनमन्न रराज वृथोच्चक रनतया नृतया वनपादपः // 10 / / इदमपास्य विरागि परागिणी रलिकदम्बकसम्बुरुहां ततीः / स्तनभरेण जितस्तबकानम नवलते वलतेऽभिमुखं तव // 11 / / सुरभिणि श्वसिते दधतस्तृष नवसुधामधुरे च तवाधरे / अलमलेरिव गन्धरसावमू ___ मम न सौमनसौ मनसो मुदे // 12 / / इति गदन्तमनन्तरमङ्गना भूजयूगोन्नमनोच्चतरस्तनी। प्रणयिनं रभसादुदरश्रिया __ वलिभयालिभयादिव सस्वजे // 13 / / वदनसौरभलोभपरिभ्रमद् भ्रमरसंभ्रमसंभृतशोभया। चलितया विदधे कलमेखला कलकलोऽलकलोलशान्यया // 14 / / अजगणन् गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः / सति मधावभवन्मदनव्यथा विधुरिता धुरिताः कुकुरस्त्रियः / / 15 / / कुसुमकामुककामु कसंहित द्रुतशिलीमुखखण्डितविग्रहाः। / 'मरणमप्यपराः प्रतिपेदिरे किमु मुहुर्मु मुहुर्गतभर्तृकाः // 16 / / 25