________________ 444 ] [ काव्यषट्कं तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषङ्गिणि / * गुणवदाश्रयलब्धगुणोदये मलिनिमालिनि माधवयोषिताम् / / 4 / / स्फुटमिवोज्ज्वलकाञ्चनकान्तिभि युतमशोकमशोभत चम्पकैः / विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं. मदनाग्निना // 5 / / स्मरहुताशनमुमु रचूर्णतां दधुरिवाम्रवणस्य रजःकणाः / निपतिताः परितः पथिकवजानु परिते परितेपुरतो भृशम् // 6 / / रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिकाः / बकुलपुष्परसासवपेशल ध्वनिरगान्निरगान्मधुपावलिः / / 7 / / प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया। प्रियतमाय वपुर्ण रुमत्सर च्छिदुरयाऽदुरयाचितमङ्गनाः // 8 // मधुकरै रपवादकरैरिव स्मृतिभुवः पथिका हरिणा इव / कलतया वचसः परिवादिनी स्वरजिता रजिता वशमाययुः // 6 // 25 समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीर्षया।