________________ 438 ] [ काव्यषट्कं पाकर्णमुल्लसितमम्बु विकासिकाश __नीकाशमाप समतां सितचामरस्य / / 35 / / गण्डूषमुज्झितवता पयसः सरोषं नागेन लब्धपरवारणमारुतेन / अम्भोधिरोधसि पृथुप्रतिमानभाग . रुद्धोरुदन्तमुसलप्रसरं निपेते / / 36 / / दानं ददत्यपि जलैः सहसाद्धिरूढे को विद्यमानगतिरासितुमुत्सहेत / यद्दन्तिनः कटकटाहतटान्मिमङ्क्षो मङ्ख्दपाति परित पटलैरलीनाम् / / 37 / / अन्तर्जलौघमवगाढवतः कपोलो हित्वा क्षणं विततपक्षतिरन्तरीक्षे / द्रव्याश्रयेष्वपि गुणेषु ररोज नीलो वर्णः पृथग्गत इवालिगणो गजस्य / / 38 / / संसपिभिः पयसि गैरिकरेणुरागै रम्भोजगर्भरजसाङ्गनिषङ्गिणा च / क्रीडोपभोगमनुभूय सरिन्महेभाव न्योन्यवस्त्रपरिवर्तमिव व्यधत्ताम् // 39 // यां चन्द्रकैर्मदजलस्य महानदीनां नेत्रश्रियं विकसतो विदधुर्गजेन्द्राः / तां प्रत्यवापुरविलम्बितमुत्तरन्तो धौताङ्गलग्ननवनीलपयोजपत्रः // 40 / / प्रत्यन्यदन्ति निशिताङ्कुशदूर भिन्ननिर्याणनिर्यदसृजं चलितं निषादी / रोद्धम् महेभमपरिवढिमानमागा दाक्रान्तितो न वशमेति महान् परस्य // 41 // नात्र / 25