________________ (4) शिशुपालवधम् :: पञ्चमः सर्गः ] [ 439 सेव्योऽपि सानुनयमाकलनाय यन्त्रा नीतेन वन्यकरिदानकृताधिवासः / नाभाजि केवलमभाजि गजेन शाखी नान्यस्य गन्धमपि मानभृतः सहन्ते / / 42 / / अद्रीन्द्रकुञ्जचरकुञ्जरगण्डकाष संक्रान्तदानपयसो वनपादपस्य / सेनागजेन मथितस्य निजप्रसून मम्ले यथागतमगामि कुलैरलीनाम् / / 43 / / नोच्चैर्यदा तरुतलेषु ममुस्तदानी ___ माधोरणैरभिहिताः पृथुमूलशाखाः / बन्धाय चिच्छिदुरिभास्तरसात्मनैव नैवात्मनीनमथवा क्रियते मदान्धैः / / 44 / / उष्णोष्णशीकरसजः प्रबलोष्मणोऽन्त रुत्फुल्लनीलनलिनोदरतुल्यभासः / एकान् विशालशिरसो हरिचन्दनेषु नागान् बवन्धुरपरान्मनुजा निरासुः / / 45 / / कण्डूयत: कटभुवं करिणा मदेन ___ स्कन्धं सुगन्धिमनुलीनवता नगस्य / स्थूलेन्द्रनीलशकलावलिकोमलेन कण्ठेगुणत्वमलिनां, वलेयेन भेजे // 46 / / निधू तवीतमपि बालकमुल्ललन्तं यन्ता क्रमेण परिसान्त्वनतर्जनाभिः / शिक्षावशेन शतकैर्वशमानिनाय . शास्त्रं हि निश्चितधियां क्व न सिद्धिमेति / / 47 स्तम्भं महान्तमुचितं सहसा मुमोच दानं ददावतितरां सरसाग्रहस्त: / 45 // 25