________________ (4) शिशुपालवधम् :: पञ्चमः सर्गः ] [ 437 नाभिह्रदैः परिगृहीतरयाणि निम्नः . स्त्रीणां बृहज्जघनसेतुनिवारितानि / जग्नुर्जलानि जलमड्डुकवाद्यवल्गु वल्गधनस्तनतटस्खलितानि मन्दम् / / 26 / / आलोलपुष्करमुखोल्लसितैरभीक्ष्ण मुक्षाम्बभूवुरभितो वपुरम्बुवषैः / खेदायत श्वसितवेगनिरस्तमुग्ध मूर्धन्यरत्ननिकरैरिव हास्तिकानि / / 30 / / ये पक्षिणः प्रथममम्बुनिधि गतास्ते येऽपीन्द्रपाणितुलितायुधलूनपक्षाः / ते जग्मुरद्रिपतयः सरसीविंगाढु माक्षिप्तकेतुकुथसैन्यगजच्छलेन / / 31 / / आत्मानमेव जलधेः प्रतिबिम्बताङ्ग मूमौ महत्यभिमुखापतितं निरीक्ष्य / क्रोधादधावदपभीरभिहन्तुमन्य नागाभियुक्त इव युक्तमहो महेभः / / 32 // नादातुमन्यकरिमुक्तामदाम्बुक्ति . धूताङ्कुशेन न विहातुमपीच्छताम्भः / रुद्ध गजेन सरितः सरुषावतारे रिक्तोदपात्रकरमास्त चिरं जनौघः / / 33 / / पन्थानमाशुविजहीहि पुरः स्तनौ ते पश्यन् प्रतिद्विरदकुम्भविशङ्किचेताः / स्तम्बेरमः परिणिनंसुरसावूपैति षिड्गैरगद्यत ससंभ्रममेव काचित् / / 34 / / कीर्णं शनैरनुकपोलमनेकपानां हस्तैविगाढमदतापरुजः शमाय / 25