________________ 436 ] [ काव्यषटकं दूर्वाप्रतानसहजास्तरणेषु भेजे निद्रासुखं वसनसद्मसु राजदारैः // 22 // प्रस्वेदवारिसविशेषविषक्तमङ्गे कूर्पासकं क्षतनखक्षतमुत्क्षिपन्ती / आविर्भवद्घनपयोधरबाहुमूला शातोदरी युवदृशां क्षणमुत्सवोऽभूत् / / 23 / / यावत्स एव समयः सममेव ताव दव्याकुलाः पटमयान्यभितो वितत्य / पर्यापतत्क्रयिकलोकमगण्यपूर्णा ___पणा विपणिनो विपणीविभेजुः / / 24 / / अल्पप्रयोजनकृतोरुतरप्रयासै रुद्गूर्णलोष्टलगुडैः परितोऽनुविद्धम् / उद्यातमुद्रुतमनोकहजालमध्या दन्यः शशं गुणमनल्पमवन्नवाप / / 25 / / त्रासाकुलः परिपतन् परितो निकेतान् पुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि / तस्थौ तथापि न मृगः क्वचिदङ्गनाना माकर्णपूर्णनयनेषु हतेक्षणश्रीः / / 26 / / आस्तीर्णतल्परचितावसथः क्षणेन वेश्याजनः कृतनवप्रतिकर्मकाम्यः / खिन्नानखिन्नमतिरापततो मनुष्यान् प्रत्यग्रहीच्चिरनिविष्ट इवोपचारैः / / 27 / / सस्नुः पयः पपुरनेनिजुरम्बराणि | जाबिसं धृतविकासिबिसप्रसूनाः / सैन्याः श्रियामनुपभोगनिरर्थकत्व दोषप्रवादममृजन्नगनिम्नगानाम् / / 28 / / 15 25