________________ (4) शिशुपालवधम् :: पञ्चमः सर्गः ] [ 435 सिक्ता इवामृतरसेन मुहुर्जनानां क्लान्तिच्छिदो वनवनस्पतयस्तदानीम् / शोखावसक्तवसनाभरणाभिरामाः कल्पद्रुमैः सह विचित्रफलैविरेजुः // 16 / / यानाज्जनः परिजनैरवतार्यमाणा राजीनरापनयनाकुलसौविदल्लाः / . स्रस्तावगुण्ठनपटाः क्षणलक्ष्यमाण वक्त्रश्रियः सभयकौतुकमीक्षते स्म / / 17 / / कण्ठावसक्तमृदुबाहुलतास्तुरंगाद् __ राजावरोधनवधूरवतारयन्तः / आलिंगनान्यधिकृताः स्फुटमापुरेव गण्डस्थलीः शुचितया च चुचुम्बुरासाम् / / 18 / / दृष्ट्वेव निजितकलापभरामधस्ता द्वयाकीर्णमाल्यकबरां कबरी तरुण्याः / प्रादुद्रुवत्सपदि चन्द्रकवान् द्रुमाग्रा त्सङ्घर्षणा सह गुणाभ्यधिकैर्दुरासम् / / 16 / / रोचिष्णुकाञ्चनचयांशुपिशङ्गिताशा वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः / भूभर्तु रायतविरन्तरसन्निविष्टाः पादा इवाभिबभुरावलयो रथानाम् // 20 / / छायाविधायिभिरनुज्झितभूतिशोभै रुच्छ्रायिभिर्बहलपाटलधातुरागैः / दुष्यैरिव क्षितिभृतां द्विरदैरुदार तारावलीविरचनैर्व्यरचन्निवासाः // 21 / / 25 / 'उत्क्षिप्तकाण्डपटकान्तरलीयमान मन्दानिलप्रशमितश्रमघर्मतोयैः /