________________ 406 ] [ काव्यपटकं त्वया विप्रकृतश्चैद्यो रुक्मिणी हरता हरे / बद्धमलस्य मूलं हि महद्वैरतरोः स्त्रियः / / 38 / / त्वयि भौमं गते जेतुमरौत्सीत्स पुरीमिमाम् / प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव // 39 / / 5 पालप्यालमिदं बभ्रोर्यत्स दारानपाहरत् / कथापि खलु पापानामलमश्रेयसे यतः / / 40 / / विराद्ध एवं भवता विराद्धा बहुधा च नः / निर्वर्त्यतेऽरिः क्रियया स श्रुतश्रवसः सुतः / / 41 / / विधाय वैरं सामर्षे नरोऽरौ यं उदासते / 10 प्रक्षिप्योदचिषं कक्षे शेरते तेऽभिमारुतम् / / 42 / / मनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी। क्रियासमभिहारेण विराध्यन्तं क्षमेत कः / / 43 / / अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः / / पराक्रमः परिभवे वैयात्यं सुरतेष्विव / / 44 / / 15 माजीवन् यः परावज्ञादुःखदग्धोऽपि जीवहति / तस्याजननिरेवास्तु जननीक्लेशकारिणः // 45 / / पदाहतं यदुत्थाय मूर्धानमधिरोहति / स्वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः / / 46 / / असम्पादयतः कञ्चिदर्थं जातिक्रियागुणः / यहच्छाशब्दवत्पुंसः संज्ञायै जन्म केवलम् // 47 / / तुङ गत्वमितरा नाद्रौ नेदं सिन्धावगाधता / अलङ्घनीयताहेतुरुभयं तन्मनस्विनि / / 48 / / तुल्येऽपराचे स्वर्भानुर्भानुमन्तं चिरेण यत् / . हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलम् / / 46 / / 25 स्वयं प्रणमतेऽल्पेऽपि परवायावपेयुषि / निदर्शनमसाराणां लधुर्बहुतृणं नरः / / 50 / / 20