________________ (4) शिशुपालवधम् :: प्रथमः सर्गः ] [ 401 गृहोतदिक्करपुननिवर्तिभि श्चिराय याथार्थ्यमलम्भि दिग्गजैः // 64 / / प्रभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रबन्दीश्वसितानिलैर्यथा / सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलापवनैर्न निर्ववौ // 65 / / तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च / प्रसूनक्लृप्ति दधतः सदर्तवः पुरेऽस्य वास्तव्यकुटुम्बितां ययुः / / 66 / / अमानवं जातमजं कुले मनो: प्रभाविनं भाविनमन्तमात्मनः / मुमोच जानन्नपि जानकी न ___ यः सदाभिमानकंधना हि मानिनः / / 67 / / स्मरत्यदो दाशरथिर्भवन्भवा नमं वनान्ताद्वनितापहारिणम् / पयोधिमाबद्धचलज्जलाविलं विलङ्घय लङ्कां निकषा हनिष्यति / / 68 // अथोपपत्ति छलनापरोऽपराम वाप्य शैलूष इवैष भूमिकाम् / तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते संप्रति सोऽप्यसः परैः // 66 // स बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः / युवा कराक्रान्तमहीभृदुच्चकै रसशयं संपति तेजसा रविः / / 70 / / 25