________________ 402 ] [ काव्यषट्क स्वयं विधाता सुरदैत्यरक्षसा मनु ग्रहावगृहयोर्यदृच्छया / दशाननादीनभिराद्धदेवता वितीर्णवीर्यातिशयान् हसत्यसो // 71 / / बलावलेपादधुनापि पूर्ववत् प्रबाध्यते तेन जगज्जिगीषुणा। सतीव योषित्प्रकृतिः सुनिश्चला पुमांमसभ्येति , भवान्तरेष्वपि / / 72 / / तदेनमुल्लङ्घितशासनं विधे विधेहि कीनाशनिकेतनातिथिम् / शुभेतराचारविपवित्रमापदो ___ निपातनीया हि सतामसाधवः // 73 / / हृदयमरिवघोदयादु दूढ द्रढिम दधातु पुनः पुरन्दरस्य / घनपुलकपुलोमजाकुचाग्र द्रुतपरिरम्भनिपीडनक्षमत्वम् / / 74 / / प्रोमित्युक्तवतोऽथ शाङ्गिण इति व्याहृत्य वाचं नभ स्तस्मिन्नुत्पतिते पुरः सुरमुनाविन्दोः श्रियं बिभ्रति / शत्रूणामनिशं विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति व्योम्नीव भ्रुकुटिच्छलेन वदने केतुश्चकारास्पदम् / 75 / // इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये कृष्ण नारदं सम्भाषणं नाम प्रथमः सर्गः // 1 // 20