________________ 400 ] [ काव्यषट्कं परेतभर्तु महिषोऽमुना धनुर्विधातुमुत्खातविषाणमण्डलः / हृतेऽपि भारे महतस्त्रपाभरादुवाह दुःखेन भृशानतं शिरः / 57 / स्पृशन्सशङ्कः समये शुचावपि स्थितः कराग्रैरसमग्रपातिभिः / अधर्मधर्मोदकबिन्दुमौक्तिकैरलञ्चकारास्य वधूरहस्करः / 58 / कलासमग्रेण गृहानमुञ्चता मनस्विनीरुत्कयितुं पटीयसा। विलासिनस्तस्य वितन्वता रति न नर्मसाचिव्यमकारि नेन्दुना / / 56 / / विदग्धलीलोचितदन्तपत्रिका विधित्सया नूनमनेन मानिना / न जातु वैनायकमेकमुद्धृत विषाणमद्यापि पुनः प्ररोहति / / 60 / / निशान्तनारीपरिधानधूननः स्फुटागसाप्यूरुषु लोल चक्षुषः / प्रियेण तस्यानपराधबाधिताः प्रकम्पनेनानुचकम्पिरे सुराः // 61 / / तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसाम् / बभार बाष्पैदिगुणीकृतं तनु स्तनूनपाद्धमवितानमाधिजैः / / 62 / / परस्य मर्माविधमुज्झतां निजं द्विजिह्वतादोषमजिह्मगामिभिः / तमिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजङ्गता / / 63 / / 25 तदीयमातवटाविघट्टितैः कटस्थलप्रोषितदानवारिभिः /