________________ (4) शिशुपालवधम् :: प्रथमः सर्गः ] [ 366 त्रसत्तुषाराद्रिसुताससंभ्रम स्वयंग्रहाश्लेषसुखेन निष्क्रयम् // 50 // * पुरीमवस्कन्द लुनीहि नन्दनं ___ मुषाण रत्नानि हरामराङ्गनाः / विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः / / 51 / / सलीलयातानि न भर्तुरभ्रमोर्न चित्रमुच्चैःश्रवसः पदक्रमम् / अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम् / / 52 / / अशक्नुवन् सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् / प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यदिवसानि कौशिकः / / 53 / / बृहच्छिलानिष्ठुरकण्ठघट्टना द्विकीर्णलोलाग्निकणं सुरद्विषः / जगत्प्रभोरप्रसहिष्णु वैष्णवं न चक्रमस्याक्रमताधिकन्धरम् / / 54 / / विभिन्नशङ्खः कलुषीभवन्मुहु मदेन दन्तीव मनुष्यधर्मणः / निरस्तगाम्भीर्यमपास्तपुष्पकं प्रकम्पयामास न मानसं न सः / / 55 / / रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुंकारपराङ् मुखीकृताः / 25 / प्रहर्तु रेवोरगराजरज्जवो जवेन कण्ठं सभयाः प्रपेदिरे // 56 / /