SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ 368 ] [ काव्यषट्कं दिशामधीशांश्चतुरो यतः ___ सुरानपास्य तं रागहृताः सिषेविरे / अवापुरारभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः / / 44 / / पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्च कञ्चुकाः / स्वरूपशोभैकफलानि नाकिनां गणैर्यमाशङ्कय तदादि चक्रिरे / / 45 / / स संचरिष्णुर्भुवनान्तरेषु यां यदृच्छयाऽशिश्रियदाश्रयः श्रियः / अकारि तस्यै मुकुटोपलस्खल करैस्त्रिसन्ध्यं त्रिदशैदिशे नमः / / 46 / / सटाच्छटाभिन्नघनेन बिभ्रता __ नृसिंह ! सैंहीमतनुं तनुं त्वया / स मुग्धकान्तास्तनसङ्गभङ्ग रैरुरोविदारं प्रतिचस्करे नखैः / / 47 / / निवोदमिच्छन्नथ दर्पजन्मनो, रणेन कण्ड्वास्त्रिदशैः समं पुनः / स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः // 48 // प्रभुबु भूषुर्भुवनत्रयस्य यः शिरोऽतिरागादशमं चिकतिषुः / अतर्कयद्विघ्नमिवेष्टसाहसः प्रसादमिच्छासशं पिनाकिनः / / 46 / / समुत्क्षिपन्यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः / 25
SR No.004484
Book TitleKavyashatakam Mulam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages1014
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy