________________ ___ रधुवंशे तृतीयः सर्गः [21 ततः प्रकोष्ठे हरिचन्दनाङ्किते, प्रमथ्यमानार्णवधीरनादिनीम् / रघुः शशाङ्कार्धमुखेन पत्त्रिणा, ___शरासनज्यामलुनाद्विडोजसः / / 56 / / 5 स चापमुत्सृज्य विवृद्धमत्सरः, प्रणाशनाय प्रबलस्य विद्विषः / महीध्रपक्षव्यपरोपणोचितं, स्फूरत्प्रभामण्डलमस्त्रमाददे / / 60 / / रघु शं वक्षसि तेन ताडितः पपात भूमौ सह सै काश्रुभिः / निमेषमात्रादवधूय त व्यथां, सहोत्थितः सैनिकहर्षनिःस्वनैः // 61 / / तथापि शस्त्रव्यवहारंनिष्ठुरे, विपक्षभावे चिरमस्य तस्थुषः / 15 तुतोष वीर्यातिशयेन वृत्रहा, पदं हि सर्वत्र गुणनिधीयते / / 62 / / प्रसङ्गमद्रिष्वपि सारवत्तया, न मे त्वदन्येन विसोढमायुधम् / प्रवेहि मां प्रीतमृते तुरंगमा किमिच्छसीति स्फुटमाह वासवः / / 63 / / ततो निषङ्गादसमग्रमुद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङगुलिम् / नरेन्द्रसूनुः प्रतिसंहरन्नि प्रियंवदः प्रत्यवदत्सुरेश्वरम् / / 64 / / अमोच्यमश्वं यदि मन्यसे प्रभो , ततः समाप्ते विधिनैव कर्मणि / 25 अजस्रदीक्षाप्रयतः स मद्गुरुः, तोरशेषेण फलेन युज्यताम् / / 65 / /