________________ 20 ] काव्यषट्कम् अतिष्ठदालीढविशेषशोभिना, वपुःप्रकर्षेण विडम्बितेश्वरः / / 52 / / रघोरवष्टम्भमयेन पत्रिणा, हदि क्षतो गोत्रभिदप्यमर्षणः / 5 नवाम्बुदानीकमुहूर्तलाञ्छने, धनुष्यमोघं समधत्त सायकम् / / 53 / / दिलीपसूनोः स बृहद्भ जान्तरं, प्रविश्य भीमासुरशोणितोचितः / पपावनास्वादितपूर्वमा शुगः , कुतूहलेनेव मनुष्यशोणितम् // 54 / / हरेः कुमारोऽपि कुमारविक्रमः, . सुरद्विपास्फालनकर्कशाङ्ग लो। भुजे शचीपत्रविशेषकाङ्किते .. स्वनामचिह्न निचखान सायकम् / / 55 / / 15 जहार चान्येन मयूरपत्रिणा, . शरेण शक्रस्य महाशनिध्वजम् / चुकोप तस्मै स भृशं सुरश्रियः, प्रसह्य केशव्यपरोपणादिव / / 56 // तयोरुपान्तस्थितसिद्धसैनिकं, गरुत्मदाशीविष भीमदर्शनैः / बभूव युद्ध तुमुलं जयैषिणो रधोमुखैरूर्ध्वमुखैश्च पत्रिभिः / / 57 / / अतिप्रबन्धप्रहितास्त्रवृष्टिभि स्तमाश्रयं दुष्प्रसहस्य तेजसः / 25 शशाक निर्वापयितुं न वासवः, .. स्वतश्च्युतं वह्निमिवाद्भिरम्बुदः / / 58 / / 20