SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ रघुवंशे तृतीयः सर्गः [ 19 स चेत्स्वयं कर्मसु धर्मचारिणां, त्वमन्तरायो भवसि च्युतो विधिः // 45 // तदङ्गमग्र्यं मघवन्महाऋतो - र# तुरंगं प्रतिमोक्तुमर्हसि / 5 पथः श्रुतेर्दर्शयितार ईश्वरा, मलीमसामाददते न पद्धतिम् / / 46 / / इति प्रगल्भं रघुणा समीरितं, वचो निशम्याधिपतिदिवौकसाम् / निवर्तयामास रथं सविस्मयः, प्रचक्रमे च प्रतिवक्तुत्तरम् / / 47 / / यदात्थ राजन्यकुमार तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः / जगत्प्रकाशं तदशेषमिज्यया, * भवद्गुरुर्लङ्घयितुं ममोद्यतः // 48 / / हरिर्यथैकः पुरुषोत्तमः स्मृतो महेश्वरस्त्र्यम्बक एव नापरः / 15 तथा विदुर्मी मुनयः शतक्रतु, - द्वितीयगामी नहि शब्द एष नः / / 46 / / अतोऽयमश्वः कपिलानुकारिणा, पितुस्त्वदीयस्य मयापहारितः / अलं प्रयत्नेन तवात्र मा निधाः, - 20 पदं पदव्यां सगरस्य संततेः / / 50 / / ततः प्रहस्यापभयः पुरंदरं, पुनर्बभाषे तुरगस्य रक्षिता / गृहाण शस्त्रं यदि सर्ग एष ते, . न खल्वनिजित्य रघु कृती भवान् / / 51 // 25 स एवमुक्त्वा मघवन्तमुन्मुखः, करिष्यमाणः सशरं शरासनम् /
SR No.004484
Book TitleKavyashatakam Mulam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages1014
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy