________________ 18 ] काव्यषट्कम् अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयं द्गुरुः / नरेन्द्रकन्यास्तमवाप्य सत्पति तमोनुदं दक्षसुता इवाबभुः / 33 / युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकंधरः / वपुःप्रकर्षादजयद्गुरुं रघुस्तथापि नोचविन याददृश्यत / / 34 / / ततःप्रजानां चिरमात्मना धतां नितान्तगुती लघयिष्यता धुरम् / निसर्गसंस्कारविनीत इत्यसो नपेण चके युवराजशब्दभाक् / 35 // नरेन्द्रमूलायतनादनन्तरं तदास्पदं श्रीयुवराजसंज्ञितम् / अगच्छदंशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलम् / / विभावसुः सारथिनेव वायुना धनव्यपायेन गभस्तिमानिव / बभूव तेनातितरां सुदुःसह कटप्रभेदेन करीव पार्थिवः / / 37 / / नियुज्य तं होमतुरंगरक्षणे धनुर्धरं राजसुतैरनुद्रुतम् / अपूर्णमेकेन शतऋतूपमः शतं ऋतूनामपविघ्नमाप सः // 30 // ततः परं तेन मखाय यज्वना तुरंगमुत्सृष्टमनर्गलं पुनः। धनु तामग्रतं एव रक्षिणां जहार शक्र: किल गूढविग्रहः / 39 / विषादलुप्तप्रतिपत्ति विस्मितं कुमारसैन्यं सपदि स्थितं च तत् / वसिष्ठधनुश्च यदृच्छयागता श्रुतप्रभावा ददृशेऽथ नन्दिनी।४०। तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सताम् / अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलोपनन्दनः / / 41 / / स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसम्भवः / 20 पुन: पुन: सूतनिषिद्धचापल हरन्तमश्वं रथरश्मिसंयतम् / 42 / शतैस्तमक्षणामनिमेषवृत्तिभिहरि विदित्वा हरिभिश्च वाजिभिः / अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव / 43 / मखांशभाजां प्रथमो मनीषिभिस्त्वमेव देवेन्द्र सदा निगद्यसे / अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे / 44) 25 त्रिलोकनाथेन सदा मख द्विषस् त्वया नियम्या ननु दिव्यचक्षुषा / 15