________________ 10 384 ] [ काव्यषट्कं // 18 // अष्टादशः सर्गः॥ ( द्रुतविलंबितवृत्तम् ) तत उदग्र इव द्विरदे मुनौ / रणमुपेयुषि भीमभुजायुधे / धनुरपास्य सबाणधि शंकरः प्रतिजघान घनैरिव मुष्टिभिः // 1 // हरपृथासुतयोर्ध्वनिरुत्पतन्नमृदुसंवलिताङ्गुलिपाणिजः / स्फुटदनल्पशिलारवदारुणः प्रतिननाद दरीषु दरीभृतः / / 2 / / शिवभुजाहतिभिन्नपृथुक्षतीः सुखमिवानुबभूव कपिध्वजः / क इव नाम बृहन्मनसां भवेदनुकृतेरपि सत्त्ववतां क्षमः / / 6 / / वरणमुखच्युतशोणितशीकरस्थगितशैलतटाभभुजान्तरः / अभिनवौषसरागभृता बभौ जलधरेण समानमुमापतिः / / 4 / / उरसि शूलभृतः प्रहिता मुहुः प्रतिहतिं ययुरर्जुनमुष्टयः / भृशरया इव सह्यमहोभृतः पृथुनि रोधसि सिन्धुमहोर्मयः / / 15 निपतितेऽधिशिरोधरमायते सममरत्नियुगे युगचक्षुषः / त्रिचतुरेषु पदेषु किरीटिना लुलितदृष्टि मदादिव चस्खले / 6 / अभिभवोदितमन्युविदीपितः समभिसृत्य भृशं जवमोजसा / भुजयुगेन विभज्य समाददे, - शशिकलाभरणस्य भुजद्वयम् / / 7 / / प्रववृतेऽथ महाहवमल्लयोरचलसंचलाहरणो रणः / करणशृङ्खलसंकलनागुरुगुरुभुजायुधर्गावतयोस्तयोः / / 8 / / अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशिमौलिना / समधिरूढमजेन नु जिष्णुना / स्विदिति वेगवशान्मुमुहे गणैः / / 6 / /