________________ किरातार्जुनीयम् :: सप्तदशः सर्गः ] [ 383 आक्षिप्तचापावरणेषुजालश्छिन्नोत्तमासिः स मधेऽवधूतः / रिक्तः प्रकाशश्च बभूव भूमेरुत्सादितोद्यान इव प्रदेश: / / 5 / / स खण्डनं प्राप्य परादमर्षवान् भुजद्वितीयोऽपि विजेतुमिच्छया / ससज वृष्टि परिरुग्णपादपां द्रवेतरेषां पयसामिवाश्मनाम् / / 60 / / नीरन्धं परिगमिते क्षयं पृषत्क भूतानामधिपातिना शिलाविताने / उच्छ्रायस्थगितनभोदिगन्तरालं चिक्षेप क्षितिरुहजालमिन्द्रसूनुः / / 61 / / निःशेषं शकलितवल्कलाङ्गसारैः कुर्वद्भिर्भुवमभितः कषायचित्राम् / ईशानः सकुसुमपल्लवैनगै स्तैरातेने बलिमिव रङ्गदेवताभ्यः / / 62 / / उन्मज्जन्मकर इवामरापगाया वेगेन प्रतिमखमेत्य बाणनद्याः / गाण्डीवी कनकशिलानिभं भुजाभ्या माजघ्ने विषमविलोचनस्य वक्षः // 63 / / अभिलषतः उपायं विक्रम कीत्तिलक्ष्म्यो.. रसुगममरिसैन्यैरङ्कमभ्यागतस्य / जनक इव शिशुत्वे सुप्रियस्यैकसूनो रविनयमपिसेहे पाण्डवस्य स्मरारिः / / 64 / / ... // इति भारविकृतौ महाकाव्ये किराता र्जुनीये सप्तदशः सर्गः // 17 / / त