________________ 382 ] [ काव्यपटकं साम्यं गतेनाशनिना मघोनः ___ शशाङ्कखण्डाकृतिपाण्डुरेण / शंभु बिभित्सुर्धनुषा जघान स्तम्बं विषाणेन महानिवेभः / / 51 // 5 रयेण सा संनिदधे पतन्ती भवोद्भवेनात्मनि चापयष्टिः / समुद्धता सिन्धुरनेकमार्गा परे स्थितेनौजसि जह्न नेव / / 52 / / विकार्मुकः कर्मसु शोचनीयः परिच्युतौदार्य इवोपचारः / विचिक्षिपे शूलभृता सलील स पत्रिभिर्दू रमदूरपातैः / / 53 / / उपोढकल्याणफलोऽभिरक्षन् / वीरव्रतं पुण्यरणाश्रमस्थः / जपोपवासैरिव संयतात्मा तेपे मुनिस्तैरिषभिः शिवस्य / / 54 / / ततोऽग्रभूमि व्यवसायसिद्धेः सीमानमन्यैरतिदुस्तरं सः / तेजः श्रियामाश्रयमुत्तमासि साक्षादहंकारमिवाललम्बे / / 5 / / शरानवद्यन्ननवद्यकर्मा चचार चित्रं प्रविचारमार्गः / हस्तेन निस्त्रिशभृता स दीप्तः सार्काशुना वारिधिरूमिणेव / / 56 / / यथा निजे वर्त्मनि भाति भाभि श्छायामयश्चाप्सु सहस्ररश्मिः / तथा नभस्याशु रणस्थलीषु / स्पष्टद्विमूतिर्ददृशे स भूतैः / / 57 / / शिवप्रणुन्नेन शिलीमुखेन त्सरुप्रदेशादपवजिताङ्गः / / 25 ज्वलन्नसिस्तस्य पपात पाणे घनस्य वप्रादिव वैद्यतोऽग्निः / / 58 / /