________________ (3) किरातार्जुनीयम् :: अष्टादशः सर्गः ] 385 प्रचलिते चलितं स्थितमास्थिते . विनमिते नतमुन्नतमुन्नतौ / वृषकपिध्वजयोरसहिष्णुना मुहुरभावभयादिव भूभृता // 10 // करणशृङ्खलनिःसृतयोस्तयोः कृतभुजध्वनि वलगु विवल्गतोः / चरणपातनिपातितरोधसः प्रससृपुः सरितः परितः स्थलीः / / 11 / / वियति वेगपरिप्लुतमन्तरा ___समभिसृत्य रयेण कपिध्वजः / चरणयोश्चरणानमितक्षिति ___ निजगृहे तिसृणां जयिनं पुराम् / / 12 // विस्मितः सपदि तेन कर्मणा कर्मणां क्षयकरः परः पुमान् / क्षेप्तुकाममवनौ तमक्लमं निष्पिपेष परिरभ्य वक्षसा // 13 // 15 तपसा तथा न मुदमस्य ययौ भगवान्यथा विपुलसत्त्वतया / गुणसंहतेः समतिरिक्तमहो निजमेव सत्त्वमुपकारि सताम् / / 14 / / अथ हिमशुचिभस्मभूषितं शिरसि विराजितमिन्दुलेखया / 20 स्ववपुरतिमनोहरं हरं दधतमुदीक्ष्य ननाम पाण्डवः / / 15 / / सहशरधि निजं तथा कामुक ___ वपुरतनु तथैव संवर्मितम् / निहितमपि तथैव पश्यन्नसि __ वृषभगतिरुपाययौ विस्मयम् // 16 / / 25 सिषुचुरवनिमम्बुवाहाः शनैः सुरकुसुममियाय चित्रं दिवः / विमलरुचिभृशं नभो दुन्दुभे+निरखिलमनाहतस्यानशे / 17 /