________________ (3) किरातार्जुनीयम् :: षोडशः सर्गः ] [ 367 अर्कत्विषोन्मीलितमभ्युदेति - न खण्डमाखण्डलकार्मु कस्य // 12 // महीभृता पक्षवतेव भिन्ना विगाहय मध्यं परवारणेन / नावर्तमाना निनदन्ति भीम मपां निधेपि इव ध्वजिन्यः // 13 / / महारथानां प्रतिदन्त्यनीक मधिस्यदस्यन्दनमुत्थितानाम् / आमूललूनरतिमन्युनेव मातङ्गहस्तैवियते न पन्थाः / / 14 / / धृतोत्पलापीड इव प्रियायाः . शिरोरुहाणां शिथिलः कलापः / न बहभारः पतितस्य शङ्को निषादिवक्षःस्थलमातनोति // 15 // उज्झत्सु संहार इवास्तसंख्य मह्नाय तेजस्विषु जीवितानि / लोकत्रयास्वादनलोलजिह्वां न व्याददात्याननमत्र मृत्युः // 16 / / इयं च दुर्वारमहारथाना माक्षिप्य वीर्य महतां बलानाम् / शक्तिर्ममावस्यति हीनयुद्धे सौरीव ताराधिपधाम्नि दीप्तिः // 17 / / माया स्विदेषा मतिविभ्रमो वा . . ध्वस्तं नु मे वीर्यमुताहमन्यः / गाण्डीवमुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते // 18 / / * . 25