SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 368 ] .. [ काव्यषट्कं पुसः पदं मध्यममुत्तमस्य / द्विवेव कुर्वन्धनुषः प्रणादैः / नूनं तथा नैष यथाऽस्य वेषः प्रच्छन्नमप्यूहयते हि चेष्टा / / 16 / / धनुः प्रबन्धध्वनितं रुषेव सकृतिकृष्टा विततेव मौर्वी। संघानमुत्कर्षमिव व्युदस्य मुष्टेरसंभेद इवापवर्गे // 20 // अंसाववष्टब्धनतौ समाधिः . शिरोधराया रहितप्रयासः / धृता विकारांस्त्यजता मुखेन प्रसादलक्ष्मीः शशलाञ्छनस्य // 21 / / प्रहीयते कार्यवशागतेषु स्थानेषु विष्टब्धतया न देहः / स्थितप्रयातेषु ससौष्ठवश्च लक्ष्येषु पातः सदृश: शराणाम् / / 22 / / परस्य भूयान्विवरेऽभियोगः प्रसह्य संरक्षणमात्मरन्ध्रे / भीष्मेऽप्यसंभाव्यमिदं गुरौ वा न संभवत्येव वनेचरेषु // 23 / / अप्राकृतस्याहवदुर्मदस्य निवार्यमस्यास्त्रबलेन वीर्यम् / . अल्पीयसोऽप्यामयतुल्यवृत्ते महापकाराय रिपोविवृद्धिः / / 24 / / स संप्रधायैव महार्यसारः सारं विनेष्यन् सगणस्य शत्रोः / 25
SR No.004484
Book TitleKavyashatakam Mulam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages1014
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy