SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ 346 / [ काव्यषट्कं ध्वंसते यदि भवादृशस्ततः कः प्रयातु वद वर्त्मना // 42 // आकुमारमुपदेष्टुमिच्छवः संनिवृत्तिमपथान्महापदः / योगशक्तिजितजन्ममृत्यवः ____शीलयन्ति यतयः सुशीलताम् / / 43 / / तिष्ठतां तपसि पुण्यमासजन् संपदोऽनुगुणयन् सुखैषिणाम् / योगिनां परिणमन् विमुक्तये केन नास्तु विनयः सतां प्रियः // 44 / / नूनमत्रभवतः शराकृति सर्वथायमनुयाति सायकः / सोऽयमित्यनुपपन्नसंशयः' कारितस्त्वमपथे पदं यया / / 45 / / अन्यदीयविशिखे न केवलं निःस्पृहस्य भवितव्यमाहृते / निघ्नतः परनिहितं मृगं वीडितव्यमपि ते सचेतसः // 46 / / सन्ततं निशमयन्त उत्सुका यैः प्रयान्ति मुदमस्य सूरयः / कीर्तितानि हसितेऽपि तानि यं वीडयन्ति चरितानि मानिनम् / / 47 / / अन्यदोषमिव स स्वकं गुणं ख्यापयेत् कथमधष्टताजडः / उच्यते स खलु कार्यवत्तया घिग्विभिन्नबुधसेतुमर्थिताम् // 48 // 15
SR No.004484
Book TitleKavyashatakam Mulam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages1014
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy