________________ (3) किरातार्जुनीयम् :: त्रयोदशः सर्गः ] [345 स प्रयुज्य तनये महीपते रात्मजातिसडशी किलानतिम् / सान्त्वपूर्वमभिनीतिहेतुकं वक्तुमित्थमुपचक्रमे वचः // 36 / / शान्तता विनययोगि मानसं भूरि धाम विमलं तपः श्रुतम् / प्राह ते नु सदशी दिवौकसा मन्ववायमवदातमाकृतिः / / 37 // दीपितस्त्वमनुभावसंपदा .. गौरवेण लघयन्महीभृतः / . राजसे मुनिरपीह कारय नाधिपत्यमिव शातमन्यवम् // 38 / / तापसोऽपि विभुतांमुपेयिवा नास्पदं त्वमसि सर्वसंपदाम् / दृश्यते हि भवतो विना जनै-.... __रन्वितस्य सचिवैरिव द्युतिः / / 36 / / विस्मयः क इव वा जयश्रिया .. ____ नैव मुक्तिरपि ते दवीयसी / ईप्सितस्य न भवेदुपाश्रयः / कस्य निजितरजस्तमोगुणः // 40 // .. हपयन्नहिमतेजसं त्विषा स त्वमित्थमुपपन्नपौरुषः / हर्तुमर्हसि वराहभेदिनं नैनमस्मदधिपस्य सायकम् / / 41 / / ‘स्मयते तनुभृतां सनातनं न्याय्यमाचरितमुत्तमैनुभिः / 25