________________ (3) किरातार्जुनीयम् :: त्रयोदशः सर्गः] [ 347 दुर्वचं तदथ * मा स्म भून्मू गस्त्वय्यसो तदकरिष्यदोजसा / नैनमाशु यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्रिणा // 46 / / को विमं हरितुरङ्गमायुध स्थेयसीं दधतमङ्गसंहतिम् / वेगवत्तरमृते चमूपते हन्तुमर्हति शरेण दंष्टिणम् // 50 // मित्रमिष्टमुपकारि संशये मेदिनीपतिरयं तथा च ते। तं विरोध्य भवता निरासि ___ मा सज्जनकवसतिः कृतज्ञताः // 11 // लभ्यमेकसुकृतेन दुर्लभा . रक्षितारमसुरक्ष्यभूतयः / / स्वन्तमन्तविरसा जिगीषतां मित्रलाभमनु लाभसंपदः // 52 / / चञ्चलं वसु नितान्तमुन्नता मेदिनीमपि हरन्त्यरातयः / भूधरस्थिरमुपेयमागतं. . माऽवमस्त सुहृदं महीपतिम् // 53 / / जेतुमेव भवता तपस्यते ___ नायुधानि दधते मुमुक्षवः / प्राप्स्यते च सकलं महीभृता संगतेन तपसः फलं त्वया // 54 / / वाजिभूमिरिभराजकाननं सन्ति रत्ननिचयाश्च भूरिशः /