________________ (3) किरातार्जुनीयम् :: त्रयोदशः सर्गः ] [ 343 अपयन्धनुषः शिवान्तिकस्थै. विवरेसद्भिरभिख्यया जिहानः / युगपद्ददृशे विशन्वराहं तदुपोढेश्च नभश्चरैः पृषत्कः // 23 / / स तमालनिभे रिपो सुराणां __ घननीहार इवाविषक्तवेगः / भयविप्लुतमीक्षितो नभः स्थै जगतीं ग्राह इवापगां जगाहे / / 24 / / सपदि प्रियरूपपर्वरेखः सितलोहाग्रनखः खमाससाद / कुपितान्तकतर्जनाङ्गुलि श्रीय॑थयन् प्राणभृतः कपिध्वजेषुः / / 25 / / परमास्त्रपरिग्रहोरु तेजः स्फुरदुल्काकृति विक्षिपन्वनेषु / स जवेन पतन् परःशतानां पततां वात इवारवं वितेने // 26 / / अविभावितनिष्क्रमप्रयाणः / शमितायाम इवातिरंहसा सः / स पूर्वतरं नु चित्तवृत्तेर पतित्वा नु चकार लक्ष्यभेदम् // 27 // . स वषध्वजसायकावभिन्नं जयहेतुः प्रतिकायमेषणीयम् / लघु साधयितु शरः प्रसेहे . विधिनेवार्थमुदीरितं प्रयत्नः // 28 / / अविवेकवृथाश्रमाविवार्थ क्षयलोभाविव संश्रितानुरागम् / 15 25