SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ 342 ] [ काव्यषट्कं अधिरोहति गाण्डिवं महेषौ सकलः संशयमारुरोह शैलः / / 16 / / ददृशेऽथ सविस्मयं शिवेन स्थिरपूर्णायतचापमण्डलस्थः / रचितस्तिसृणां पुरां विधातु __ वधमात्मेव भयानकः परेषाम् // 17 / / विचकर्ष च संहितेषुरुच्चै श्चरणास्कन्दननामिताचलेन्द्रः / धनुरायतभोगवासुकिज्या-' ___ वदनग्रन्थिविमुक्तवह्नि शंभुः // 18 / / स भवस्य भवक्षयकहेतोः सितसप्तेश्चं विधास्यतोः सहार्थम् / रिपुराप पराभवाय मध्यं प्रकृतिप्रत्यययोरिवानुबन्धः / / 19 / / अथ दीपितवारिवाहवर्मा रववित्रासितवारणादवार्यः / निपपात जवादिषुः पिनाका ___ महतोऽभ्रादिव वैद्युतः कृशानुः / / 20 / / व्रजतोऽस्य बृहत्पतत्त्रजन्मा कृततार्योपनिपातवेगशङ्कः / प्रतिनादमहान्महोरगाणां हृदयश्रोत्रभिदुत्पपात नादः / / 21 // नयनादिव शूलिनः प्रवृत्तै मनसोऽप्याशुतरं यतः पिशङ्गः / विदधे विलसत्तडिल्लताभैः / किरणैर्योमनि मार्गणस्य मार्गः / / 22 / / 25
SR No.004484
Book TitleKavyashatakam Mulam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages1014
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy