________________ 14 ] काव्यषट्कम् तं विस्मितं धेनुरुवाच साघो मायां मयोद्भाब्य परीक्षितोऽसि / ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुःप्रहतु किमुतान्यहिंस्राः / 62 भक्त्या गुरी मय्यनुकम्पया च प्रोतास्मि ते पुत्र वरं वृणीष्व / न केवलानां पयसां प्रसूतिमवेहि मां कामदुधां प्रसन्नाम् / / 63 / / ततः समानीय स मानितार्थी हस्तौ स्वहस्ताजितवीरशब्दः / वंशस्य कर्तारमनन्तकोति सुदक्षिणायां तनयं ययाचे / / 64 / / संतानकामाय तथेति कामं राज्ञ प्रतिश्रुत्य पयस्विनी सा / दुग्ध्वा पयः पत्रपुटे मदीयं पुत्रोपभुक्ष्वेति तमादिदेश // 65 / / वत्सस्य होमार्थविधेश्च शेषमषेरनुज्ञामधिगम्य मातः / औधस्यमिच्छामि तवोपभोक्तुं षष्ठांशमुर्त्या इव रक्षितायाः / 66 इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रोततरा बभूव / तदन्विता हैमवताच्च कुक्षेः प्रत्याययावाश्रममश्रमेण // 67 / / तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर्नु पाणां गुरवे निवेद्य / प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्तयेव / / 68 // 15 स नन्दिनोस्तन्यमनिन्दितात्मा सद्वत्सलो वत्सहुतावशेषम् / पपौ वसिष्ठेन कृताभ्यनुज्ञः शुभ्र यशो मूर्तमिवातितृष्णः / 66 / प्रातर्यथोक्तव्रतपारणान्ते प्रास्थानिक स्वस्त्ययनं प्रयुज्य / तौ दंपतो स्वां प्रति राजधानी प्रस्थापयामास वशी वसिष्ठः।७० प्रदक्षिणीकृत्य हुतं हुताशमनन्तरं भर्तु ररुन्धती च / 20 धेनुं सवत्सां च नपः प्रतस्थे सन्मङ्गलोदग्रतरप्रभाव: // 71 // श्रोत्राभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः / ययावनुद्धातसुखेन मार्ग स्वेनव पूर्णेन मनोरथेन // 72 / / तमाहितोत्सुक्यमदर्शनेन प्रजाः प्रजार्थव्रतकर्शिताङ्गम् / नेत्रैः पपुस्तृप्तिमनाप्नुवद्भिर्नवोदयं नाथमिवौषधोनाम् // 73 // 25 पुरंदरश्रीः पुरमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः / भुजे भुजंगेन्द्रसमानसारे भूयः स भूमेधु रमाससञ्ज / / 74 / /